५.५६.१३६

दग्ध्वा लङ्कां पुनश्चैव शङ्का मामभ्यवर्तत ।
दहता च मया लङ्कां दग्धा सीता न संशयः ॥

पदच्छेदः

दग्ध्वादग्ध्वा (√दह् + क्त्वा)
लङ्कांलङ्का (२.१)
पुनश्चैवपुनर् (अव्ययः)–च (अव्ययः)–एव (अव्ययः)
शङ्काशङ्का (१.१)
माम्मद् (२.१)
अभ्यवर्ततअभ्यवर्तत (√अभि-वृत् लङ् प्र.पु. एक.)
दहतादहत् (√दह् + शतृ, ३.१)
(अव्ययः)
मयामद् (३.१)
लङ्कांलङ्का (२.१)
दग्धादग्ध (√दह् + क्त, १.१)
सीतासीता (१.१)
(अव्ययः)
संशयःसंशय (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ग्ध्वा ङ्कांपु श्चै
ङ्का माभ्यर्त
ता या ङ्कां
ग्धा सी ता सं यः