६.१११.२०

खरश्च निहतश्संख्ये दूषणश्च निपातितः ।
त्रिशिराश्च महावीर्यो मया बाणैरजिह्मगैः ॥

पदच्छेदः

खरश्चखर (१.१)–च (अव्ययः)
निहतःनिहत (√नि-हन् + क्त, १.१)
संख्येसंख्य (७.१)
दूषणश्चदूषण (१.१)–च (अव्ययः)
निपातितःनिपातित (√नि-पातय् + क्त, १.१)
त्रिशिराश्चत्रिशिरस् (१.१)–च (अव्ययः)
महावीर्योमहत्–वीर्य (१.१)
मयामद् (३.१)
बाणैर्बाण (३.३)
अजिह्मगैःअजिह्मग (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्चनि श्सं ख्ये
दूश्चनि पाति तः
त्रिशि राश्च हा वी र्यो
या बा णै जिह्म गैः