६.४५.१३

राजन्मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः ।
विवादश्चापि नो वृत्तः समवेक्ष्य परस्परम् ॥

अन्वयः

राजन् O King!, कुशलैः capable, मन्त्रिभिःसह along with ministers, नः is it not, मन्त्रितपूर्वम् earlier, परस्परम् one another, समवेक्ष्य reviewed, नः is it not, विवादश्च controversy, वृत्तः arose.

M N Dutt

O king before this we had deliberated together with wise counsellors, and then we disputed with each other in our respective views.

Summary

"O king! This was deliberated with capable ministers earlier, is it not It was reviewed with one another, and controversy arose."

पदच्छेदः

राजन्मन्त्रितपूर्वंराजन् (८.१)–मन्त्रित (√मन्त्रय् + क्त)–पूर्वम् (अव्ययः)
नःमद् (६.३)
कुशलैःकुशल (३.३)
सहसह (अव्ययः)
मन्त्रिभिःमन्त्रिन् (३.३)
विवादश्चापिविवाद (१.१)–च (अव्ययः)–अपि (अव्ययः)
नोमद् (६.३)
वृत्तःवृत्त (√वृत् + क्त, १.१)
समवेक्ष्यसमवेक्ष्य (√समव-ईक्ष् + ल्यप्)
परस्परम्परस्पर (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा न्मन्त्रि पू र्वं नः
कु लैःन्त्रि भिः
वि वा श्चापि नो वृ त्तः
वेक्ष्यस्प रम्