६.४९.३१

उच्यन्तां वानराः सर्वे यन्त्रमेतत्समुच्छ्रितम् ।
इति विज्ञाय हरयो भविष्यन्तीह निर्भयाः ॥

अन्वयः

एतत् this, समुच्छ्रितम् standing high, यन्त्रम् machine, सर्वे all, वानराः Vanaras, उच्यन्ताम् having told, हरयः Vanaras, इति this, विज्ञाय victory, निर्भयाः not scared, इह here, भविष्यन्ति will be.

M N Dutt

Do you tell the monkeys this is an uplifted engine. Thus assured, the monkeys shall take heart.

Summary

"Let all the Vanaras be told, that this one standing high is a machine then the Vanaras will not be scared of victory."

पदच्छेदः

उच्यन्तांउच्यन्ताम् (√वच् प्र.पु. बहु.)
वानराःवानर (१.३)
सर्वेसर्व (१.३)
यन्त्रम्यन्त्र (१.१)
एतत्एतद् (१.१)
समुच्छ्रितम्समुच्छ्रित (√समुत्-श्रि + क्त, १.१)
इतिइति (अव्ययः)
विज्ञायविज्ञाय (√वि-ज्ञा + ल्यप्)
हरयोहरि (१.३)
भविष्यन्तीहभविष्यन्ति (√भू लृट् प्र.पु. बहु.)–इह (अव्ययः)
निर्भयाःनिर्भय (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

च्य न्तां वा राः र्वे
न्त्र मेत्स मुच्छ्रि तम्
ति वि ज्ञा यो
वि ष्य न्ती निर्भ याः