६.६१.४

तस्मै तु दत्तं परमास्त्रमेत;त्स्वयम्भुवा ब्राह्मममोघवेगम् ।
तन्मानयन्तौ यदि राजपुत्रौ; निपातितौ कोऽत्र विषादकालः ॥

अन्वयः

तस्मै to him, एतत् this, अमोघवेगम् terrific speed, ब्राह्मंपरमास्त्रम् Brahma's weapon, स्वयम्भुवा creator, दत्तम् conferred, तत् that, मानयन्तौ to respect, राजपुत्रौ the princes, युधि in battle, निपातितौ fallen, अत्र there, विषादकालः to grieve for, कः why.

M N Dutt

On him the self-sprung has conferred the mighty Brahmă weapon of unfailing power; and the king's sons are doing honour to it by lying down on the field of battle. Why then do you grieve now?

Summary

To him (Indrajith), the creator has conferred this weapon of Brahma endowed with terrific speed. To respect the missile both the princes have fallen. Why do you grieve?

पदच्छेदः

तस्मैतद् (४.१)
तुतु (अव्ययः)
दत्तंदत्त (√दा + क्त, १.१)
परमास्त्रम्परम–अस्त्र (१.१)
एतत्एतद् (१.१)
स्वयम्भुवास्वयम्भु (३.१)
ब्राह्मम्ब्राह्म (१.१)
अमोघवेगम्अमोघ–वेग (१.१)
तन्मानयन्तौतद् (२.१)–मानयत् (√मानय् + शतृ, १.२)
यदियदि (अव्ययः)
राजपुत्रौराजन्–पुत्र (१.२)
निपातितौनिपातित (√नि-पातय् + क्त, १.२)
को (१.१)
ऽत्रअत्र (अव्ययः)
विषादकालःविषाद–काल (१.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
स्मैतु त्तं मास्त्र मे
त्स्वम्भु वा ब्राह्म मो वे गम्
न्मा न्तौदि रा पु त्रौ
नि पाति तौ कोऽत्रवि षा का लः