७.१९.२६

ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम् ।
स्वर्गते च नृपे राम राक्षसः स न्यवर्तत ॥

M N Dutt

Then, that best of kings, went to heaven; and when that king had gone to the celestial regions, the Raksasa (also) went away.

पदच्छेदः

ततःततस् (अव्ययः)
तद् (१.१)
राजाराजन् (१.१)
राजेन्द्रराजन्–इन्द्र (८.१)
गतःगत (√गम् + क्त, १.१)
स्थानंस्थान (२.१)
त्रिविष्टपम्त्रिविष्टप (२.१)
स्वर्गतेस्वर्गत (७.१)
(अव्ययः)
नृपेनृप (७.१)
रामराम (८.१)
राक्षसःराक्षस (१.१)
तद् (१.१)
न्यवर्ततन्यवर्तत (√नि-वृत् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः रा जा रा जेन्द्र
तः स्था नंत्रि विष्ट पम्
स्वर्ग तेनृ पे रा
राक्ष सःन्यर्त