७.२८.६

न भेतव्यं न गन्तव्यं निवर्तध्वं रणं प्रति ।
एष गच्छति मे पुत्रो युद्धार्थमपराजितः ॥

M N Dutt

Be not afraid, O you celestials; do not fly away; come back to the battle; this my son, who has never been vanquished, goes to battle.

पदच्छेदः

(अव्ययः)
भेतव्यंभेतव्य (√भी + कृत्, १.१)
(अव्ययः)
गन्तव्यंगन्तव्य (√गम् + कृत्, १.१)
निवर्तध्वंनिवर्तध्वम् (√नि-वृत् लोट् म.पु. द्वि.)
रणंरण (२.१)
प्रतिप्रति (अव्ययः)
एषएतद् (१.१)
गच्छतिगच्छति (√गम् लट् प्र.पु. एक.)
मेमद् (६.१)
पुत्रोपुत्र (१.१)
युद्धार्थम्युद्ध–अर्थ (२.१)
अपराजितःअपराजित (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भे व्यं न्त व्यं
नि र्त ध्वं णंप्रति
च्छति मे पु त्रो
यु द्धार्थ राजि तः