७.४९.१८

तच्छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत् ।
तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यमथाब्रवीत् ॥

M N Dutt

Hearing these grave and important words of Sumantra, Laksmana ordered him to relate.

पदच्छेदः

तच्छ्रुत्वातद् (२.१)–श्रुत्वा (√श्रु + क्त्वा)
भाषितंभाषित (२.१)
तस्यतद् (६.१)
गम्भीरार्थपदंगम्भीर–अर्थ–पद (२.१)
महत्महत् (२.१)
तथ्यंतथ्य (२.१)
ब्रूहीतिब्रूहि (√ब्रू लोट् म.पु. )–इति (अव्ययः)
सौमित्रिःसौमित्रि (१.१)
सूतंसूत (२.१)
वाक्यम्वाक्य (२.१)
अथाब्रवीत्अथ (अव्ययः)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

च्छ्रु त्वा भाषि तंस्य
म्भी रार्थ दं हत्
थ्यं ब्रू हीति सौ मि त्रिः
सू तं वाक्य थाब्र वीत्