७.५४.१५

तथा ब्रुवति शत्रुघ्ने राघवः पुनरब्रवीत् ।
एवं भवतु काकुत्स्थ क्रियतां मम शासनम् ॥

पदच्छेदः

तथातथा (अव्ययः)
ब्रुवतिब्रुवत् (√ब्रू + शतृ, ७.१)
शत्रुघ्नेशत्रुघ्न (७.१)
राघवःराघव (१.१)
पुनर्पुनर् (अव्ययः)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
एवंएवम् (अव्ययः)
भवतुभवतु (√भू लोट् प्र.पु. एक.)
काकुत्स्थकाकुत्स्थ (८.१)
क्रियतांक्रियताम् (√कृ प्र.पु. एक.)
मममद् (६.१)
शासनम्शासन (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थाब्रुति त्रु घ्ने
रा वःपुब्र वीत्
वंतु का कुत्स्थ
क्रि तां शा नम्