७.७७.१८

प्रशान्तं च जगत्सर्वं सहस्राक्षे प्रतिष्ठते ।
यज्ञं चाद्भुतसंकाशं तदा शक्रोऽभ्यपूजयत् ॥

M N Dutt

And Väsava being installed again on the throne, the whole universe was at rest. There upon Indra worshipped Vişnu in the shape of that wonderful sacrifice.

पदच्छेदः

प्रशान्तंप्रशान्त (√प्र-शम् + क्त, १.१)
(अव्ययः)
जगत्जगन्त् (१.१)
सर्वंसर्व (१.१)
सहस्राक्षेसहस्राक्ष (७.१)
प्रतिष्ठितेप्रतिष्ठित (√प्रति-स्था + क्त, ७.१)
यज्ञंयज्ञ (२.१)
चाद्भुतसंकाशं (अव्ययः)–अद्भुत–संकाश (२.१)
तदातदा (अव्ययः)
शक्रोशक्र (१.१)
ऽभ्यपूजयत्अभ्यपूजयत् (√अभि-पूजय् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र शा न्तं त्स र्वं
स्रा क्षेप्र तिष्ठ ते
ज्ञं चाद्भु सं का शं
दा क्रोऽभ्य पू यत्