७.८०.२५

बुधोऽपि पुरुषीभूतं समाश्वास्य नराधिपम् ।
कथाभी रमयामास धर्मयुक्ताभिरात्मवान् ॥

M N Dutt

There upon after a year Ilā having regained the male form, Budha by means of various words afforded delight to him.

पदच्छेदः

बुधोबुध (१.१)
ऽपिअपि (अव्ययः)
पुरुषीभूतंपुरुषीभूत (√पुरुषी-भू + क्त, २.१)
समाश्वास्यसमाश्वास्य (√समा-श्वासय् + ल्यप्)
नराधिपम्नराधिप (२.१)
कथाभीकथा (३.३)
रमयामासरमयामास (√रमय् प्र.पु. एक.)
धर्मयुक्ताभिर्धर्म–युक्त (√युज् + क्त, ३.३)
आत्मवान्आत्मवत् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

बु धोऽपिपुरु षी भू तं
मा श्वास्य राधि पम्
था भी या मा
र्म यु क्ताभि रात्म वान्