७.९०.२४

सिंहव्याघ्रसृगालानां खेचराणां च पक्षिणाम् ।
बहूनि वै सहस्राणि सेनाया ययुरग्रतः ॥

M N Dutt

Besides many thousand birds, moving in the sky, lions, tigers and boars went before the army.

पदच्छेदः

सिंहव्याघ्रसृगालानांसिंह–व्याघ्र–सृगाल (६.३)
खेचराणांखेचर (६.३)
(अव्ययः)
पक्षिणाम्पक्षिन् (६.३)
बहूनिबहु (१.३)
वैवै (अव्ययः)
सहस्राणिसहस्र (१.३)
सेनायासेना (६.१)
ययुर्ययुः (√या लिट् प्र.पु. बहु.)
अग्रतःअग्रतस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सिं व्याघ्रसृ गा ला नां
खे रा णांक्षि णाम्
हूनि वै स्राणि
से ना यायुग्र तः