२.१०५.१
ततः शिरसि कृत्वा तु पादुके भरतस्तदा ।
आरुरोह रथं हृष्टः शत्रुघ्नेन समन्वितः ॥
आरुरोह रथं हृष्टः शत्रुघ्नेन समन्वितः ॥
Summary
AI
Then, placing the sandals upon his head, the joyful *Bharata*, accompanied by *Śatrughna*, ascended the chariot.
२.१०५.२
वसिष्ठो वामदेवश्च जाबालिश्च दृढव्रतः ।
अग्रतः प्रययुः सर्वे मन्त्रिणो मन्त्रपूजिताः ॥
अग्रतः प्रययुः सर्वे मन्त्रिणो मन्त्रपूजिताः ॥
Summary
AI
*Vasiṣṭha*, *Vāmadeva*, and the firm-vowed *Jābāli*, along with all the ministers honored for their counsel, proceeded at the front.
२.१०५.३
मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा ।
प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम् ॥
प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम् ॥
Summary
AI
Facing eastward and circumambulating the great mountain *Citrakūṭa*, they moved along the beautiful *Mandākinī* River.
२.१०५.४
पश्यन्धातुसहस्राणि रम्याणि विविधानि च ।
प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा ॥
प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा ॥
Summary
AI
Accompanied by his army, *Bharata* then traveled alongside the mountain, observing the thousands of beautiful and diverse mineral veins.
२.१०५.५
अदूराच्चित्रकूटस्य ददर्श भरतस्तदा ।
आश्रमं यत्र स मुनिर्भरद्वाजः कृतालयः ॥
आश्रमं यत्र स मुनिर्भरद्वाजः कृतालयः ॥
Summary
AI
Not far from *Citrakūṭa*, *Bharata* then beheld the hermitage where the sage *Bharadvāja* had established his residence.
२.१०५.६
स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान् ।
अवतीर्य रथात्पादौ ववन्दे कुलनन्दनः ॥
अवतीर्य रथात्पादौ ववन्दे कुलनन्दनः ॥
Summary
AI
Reaching the hermitage of *Bharadvāja*, the intelligent joy of the *Raghu-vaṃśa* descended from his chariot and prostrated at the sage's feet.
२.१०५.७
ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत् ।
अपि कृत्यं कृतं तात रामेण च समागतम् ॥
अपि कृत्यं कृतं तात रामेण च समागतम् ॥
Summary
AI
Then, the delighted *Bharadvāja* spoke these words to *Bharata*: "O dear one, has your purpose for meeting *Rāma* been accomplished?"
२.१०५.८
एवमुक्तस्तु भरतो भरद्वाजेन धीमता ।
प्रत्युवाच भरद्वाजं भरतो धर्मवत्सलः ॥
प्रत्युवाच भरद्वाजं भरतो धर्मवत्सलः ॥
Summary
AI
Thus addressed by the wise *Bharadvāja*, the righteous *Bharata*, lover of *dharma*, replied to the sage.
२.१०५.९
स याच्यमानो गुरुणा मया च दृढविक्रमः ।
राघवः परमप्रीतो वसिष्ठं वाक्यमब्रवीत् ॥
राघवः परमप्रीतो वसिष्ठं वाक्यमब्रवीत् ॥
Summary
AI
"Requested by the preceptor and myself, the mighty and greatly pleased *Rāghava* spoke these words to *Vasiṣṭha*."
२.१०५.१०
पितुः प्रतिज्ञां तामेव पालयिष्यामि तत्त्वतः ।
चतुर्दश हि वर्षाणि य प्रतिज्ञा पितुर्मम ॥
चतुर्दश हि वर्षाणि य प्रतिज्ञा पितुर्मम ॥
Summary
AI
"I shall truly fulfill my father's vow; for my father's command indeed spans fourteen years."
२.१०५.११
एवमुक्तो महाप्राज्ञो वसिष्ठः प्रत्युवाच ह ।
वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् ॥
वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् ॥
Summary
AI
Thus addressed, the highly wise *Vasiṣṭha*, an expert in speech, spoke these significant words to the eloquent *Rāghava*.
२.१०५.१२
एते प्रयच्छ संहृष्टः पादुके हेमभूषिते ।
अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव ॥
अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव ॥
Summary
AI
"O highly wise one! Gladly grant these gold-adorned sandals, which will ensure prosperity and security for your kingdom in *Ayodhyā*."
२.१०५.१३
एवमुक्तो वसिष्ठेन राघवः प्राङ्मुखः स्थितः ।
पादुके हेमविकृते मम राज्याय ते ददौ ॥
पादुके हेमविकृते मम राज्याय ते ददौ ॥
Summary
AI
Thus instructed by *Vasiṣṭha*, *Rāghava*, standing facing the east, gave those gold-embellished sandals to me for the sake of the kingdom.
२.१०५.१४
निवृत्तोऽहमनुज्ञातो रामेण सुमहात्मना ।
अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे ॥
अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे ॥
Summary
AI
"Permitted by the great-souled *Rāma*, I have returned and am now heading to *Ayodhyā*, carrying these auspicious sandals."
२.१०५.१५
एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः ।
भरद्वाजः शुभतरं मुनिर्वाक्यमुदाहरत् ॥
भरद्वाजः शुभतरं मुनिर्वाक्यमुदाहरत् ॥
Summary
AI
Hearing these auspicious words of the high-souled *Bharata*, the sage *Bharadvāja* spoke even more auspicious words.
२.१०५.१६
नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर ।
यदार्यं त्वयि तिष्ठेत्तु निम्ने वृष्टिमिवोदकम् ॥
यदार्यं त्वयि तिष्ठेत्तु निम्ने वृष्टिमिवोदकम् ॥
Summary
AI
"O tiger among men, best of those with character! It is no surprise that such nobility resides in you, just as rainwater naturally flows to low-lying ground."
२.१०५.१७
अमृतः स महाबाहुः पिता दशरथस्तव ।
यस्य त्वमीदृशः पुत्रो धर्मात्मा धर्मवत्सलः ॥
यस्य त्वमीदृशः पुत्रो धर्मात्मा धर्मवत्सलः ॥
Summary
AI
"Your mighty-armed father *Daśaratha* is immortal, for he has such a righteous and *dharma*-loving son like you."
२.१०५.१८
तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलिः ।
आमन्त्रयितुमारेभे चरणावुपगृह्य च ॥
आमन्त्रयितुमारेभे चरणावुपगृह्य च ॥
Summary
AI
With joined palms, *Bharata* clasped the feet of that great-souled sage who had spoken thus, and began to take his leave.
२.१०५.१९
ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनः पुनः ।
भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभिः ॥
भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभिः ॥
Summary
AI
Then, the glorious *Bharata*, having repeatedly circumambulated *Bharadvāja*, departed for *Ayodhyā* along with his ministers.
२.१०५.२०
यानैश्च शकटैश्चैव हयैश्नागैश्च सा चमूः ।
पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ॥
पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ॥
Summary
AI
That vast army following *Bharata* also returned, traveling with vehicles, carts, horses, and elephants.
२.१०५.२१
ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् ।
ददृशुस्तां पुनः सर्वे गङ्गां शिवजलां नदीम् ॥
ददृशुस्तां पुनः सर्वे गङ्गां शिवजलां नदीम् ॥
Summary
AI
Then, all of them, having crossed the divine river Yamunā, which was garlanded with waves, once again beheld the river Gaṅgā with its auspicious waters.
२.१०५.२२
तां रम्यजलसंपूर्णां संतीर्य सह बान्धवः ।
शृङ्गवेरपुरं रम्यं प्रविवेश ससैनिकः ॥
शृङ्गवेरपुरं रम्यं प्रविवेश ससैनिकः ॥
Summary
AI
Accompanied by his soldiers and kinsmen, Bharata crossed that river filled with pleasant waters and entered the beautiful city of Śṛṅgaverapura.
२.१०५.२३
शृङ्गवेरपुराद्भूय अयोध्यां संददर्श ह ।
भरतो दुःखसंतप्तः सारथिं चेदमब्रवीत् ॥
भरतो दुःखसंतप्तः सारथिं चेदमब्रवीत् ॥
Summary
AI
Distressed by grief, Bharata then gazed upon Ayodhyā from Śṛṅgaverapura and spoke these words to his charioteer.
२.१०५.२४
सारथे पश्य विध्वस्ता अयोध्या न प्रकाशते ।
निराकारा निरानन्दा दीना प्रतिहतस्वना ॥
निराकारा निरानन्दा दीना प्रतिहतस्वना ॥
Summary
AI
"O Charioteer, look! Desolate Ayodhyā does not shine; she is formless, joyless, wretched, and her voice is silenced."
॥ इति अयोध्याकाण्डे पञ्चाधिकशततमः सर्गः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.