२.३०.१
दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु ।
जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ ॥
जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ ॥
Summary
AI
Having given much wealth to the *brāhmaṇas* along with *Vaidehī*, the two *Rāghavas*, accompanied by Sītā, went to see their father.
२.३०.२
ततो गृहीते दुष्प्रेक्ष्ये अशोभेतां तदायुधे ।
मालादामभिरासक्ते सीतया समलंकृते ॥
मालादामभिरासक्ते सीतया समलंकृते ॥
Summary
AI
Then those two difficult-to-behold weapons, adorned with garlands and beautifully decorated by Sītā, shone brightly when they were picked up.
२.३०.३
ततः प्रासादहर्म्याणि विमानशिखराणि च ।
अधिरुह्य जनः श्रीमानुदासीनो व्यलोकयत् ॥
अधिरुह्य जनः श्रीमानुदासीनो व्यलोकयत् ॥
Summary
AI
Then the prosperous people, having climbed the palaces, mansions, and the tops of towering buildings, watched with dejected hearts.
२.३०.४
न हि रथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः ।
आरुह्य तस्मात्प्रासादान्दीनाः पश्यन्ति राघवम् ॥
आरुह्य तस्मात्प्रासादान्दीनाः पश्यन्ति राघवम् ॥
Summary
AI
Since the streets crowded with many people were impossible to traverse, the distressed citizens climbed the palaces to behold *Rāghava*.
२.३०.५
पदातिं वर्जितच्छत्रं रामं दृष्ट्वा तदा जनाः ।
ऊचुर्बहुविधा वाचः शोकोपहतचेतसः ॥
ऊचुर्बहुविधा वाचः शोकोपहतचेतसः ॥
Summary
AI
Seeing Rāma on foot and without his royal umbrella, the people, their minds overcome with grief, spoke various words.
२.३०.६
यं यान्तमनुयाति स्म चतुरङ्गबलं महत् ।
तमेकं सीतया सार्धमनुयाति स्म लक्ष्मणः ॥
तमेकं सीतया सार्धमनुयाति स्म लक्ष्मणः ॥
Summary
AI
He whom a great fourfold army used to follow when he traveled was now followed only by Lakṣmaṇa, along with Sītā, as he went alone.
२.३०.७
ऐश्वर्यस्य रसज्ञः सन्कामिनां चैव कामदः ।
नेच्छत्येवानृतं कर्तुं पितरं धर्मगौरवात् ॥
नेच्छत्येवानृतं कर्तुं पितरं धर्मगौरवात् ॥
Summary
AI
Although he is the enjoyer of sovereignty and the granter of desires, out of respect for *dharma*, he does not wish to make his father a liar.
२.३०.८
या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि ।
तामद्य सीतां पश्यन्ति राजमार्गगता जनाः ॥
तामद्य सीतां पश्यन्ति राजमार्गगता जनाः ॥
Summary
AI
That Sītā, who previously could not be seen even by beings traveling in the sky, is now seen by the common people on the royal highway.
२.३०.९
अङ्गरागोचितां सीतां रक्तचन्दन सेविनीम् ।
वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम् ॥
वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम् ॥
Summary
AI
Sītā, accustomed to cosmetics and red sandalwood paste, will quickly be brought to a state of discoloration by the rain, heat, and cold.
२.३०.१०
अद्य नूनं दशरथः सत्त्वमाविश्य भाषते ।
न हि राजा प्रियं पुत्रं विवासयितुमर्हति ॥
न हि राजा प्रियं पुत्रं विवासयितुमर्हति ॥
Summary
AI
Today, surely, Daśaratha speaks as if possessed; for a king ought not to exile his beloved son.
२.३०.११
निर्गुणस्यापि पुत्रस्या काथं स्याद्विप्रवासनम् ।
किं पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम् ॥
किं पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम् ॥
Summary
AI
How could there be exile even for a son devoid of virtues? How much less for him by whom this whole world has been conquered through conduct alone?
२.३०.१२
आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः ।
राघवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमम् ॥
राघवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमम् ॥
Summary
AI
Harmlessness, compassion, learning, good character, self-restraint, and tranquility—these six virtues adorn *Rāghava*, the best of men.
२.३०.१३
तस्मात्तस्योपघातेन प्रजाः परमपीडिताः ।
औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात् ॥
औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात् ॥
Summary
AI
Therefore, by the injury caused to him, the subjects are extremely pained, like aquatic creatures in summer due to the depletion of water.
२.३०.१४
पीडया पीडितं सर्वं जगदस्य जगत्पतेः ।
मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः ॥
मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः ॥
Summary
AI
By the suffering of this lord of the world, the entire world is pained, like a tree laden with flowers and fruits when its root is struck.
२.३०.१५
ते लक्ष्मण इव क्षिप्रं सपत्न्यः सहबान्धवाः ।
गच्छन्तमनुगच्छामो येन गच्छति राघवः ॥
गच्छन्तमनुगच्छामो येन गच्छति राघवः ॥
Summary
AI
Let us, with our wives and kinsmen, quickly follow the departing *Rāghava* along the path he takes, just as Lakṣmaṇa does.
२.३०.१६
उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च ।
एकदुःखसुखा राममनुगच्छाम धार्मिकम् ॥
एकदुःखसुखा राममनुगच्छाम धार्मिकम् ॥
Summary
AI
Abandoning gardens, fields, and houses, sharing the same joys and sorrows, let us follow the righteous Rāma.
२.३०.१७
समुद्धृतनिधानानि परिध्वस्ताजिराणि च ।
उपात्तधनधान्यानि हृतसाराणि सर्वशः ॥
उपात्तधनधान्यानि हृतसाराणि सर्वशः ॥
Summary
AI
With their buried treasures dug up, their courtyards ruined, their wealth and grain removed, and their essence completely taken away.
२.३०.१८
रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः ।
अस्मत्त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् ॥
अस्मत्त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् ॥
Summary
AI
Let Kaikeyī take possession of the houses abandoned by us, which are covered in dust and deserted by the deities.
२.३०.१९
वनं नगरमेवास्तु येन गच्छति राघवः ।
अस्माभिश्च परित्यक्तं पुरं संपद्यतां वनम् ॥
अस्माभिश्च परित्यक्तं पुरं संपद्यतां वनम् ॥
Summary
AI
Let the forest where *Rāghava* goes become the city, and let this city abandoned by us turn into a forest.
२.३०.२०
बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः ।
अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु च ॥
अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु च ॥
Summary
AI
Let all fanged creatures leave their holes and beasts leave the peaks; let them occupy the city abandoned by us and desert their current habitats.
२.३०.२१
इत्येवं विविधा वाचो नानाजनसमीरिताः ।
शुश्राव रामः श्रुत्वा च न विचक्रेऽस्य मानसम् ॥
शुश्राव रामः श्रुत्वा च न विचक्रेऽस्य मानसम् ॥
Summary
AI
Rāma heard various words spoken by many people in this manner; yet, even after hearing them, his mind did not waver.
२.३०.२२
प्रतीक्षमाणोऽभिजनं तदार्त
मनार्तरूपः प्रहसन्निवाथ ।
जगाम रामः पितरं दिदृक्षुः
पितुर्निदेशं विधिवच्चिकीर्षुः ॥
मनार्तरूपः प्रहसन्निवाथ ।
जगाम रामः पितरं दिदृक्षुः
पितुर्निदेशं विधिवच्चिकीर्षुः ॥
Summary
AI
Although his kinsmen were distressed, the unperturbed Rāma, appearing almost cheerful, set out to see his father, intent on fulfilling his father's command according to the prescribed rules.
२.३०.२३
तत्पूर्वमैक्ष्वाकसुतो महात्मा
रामो गमिष्यन्वनमार्तरूपम् ।
व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं
पितुर्महात्मा प्रतिहारणार्थम् ॥
रामो गमिष्यन्वनमार्तरूपम् ।
व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं
पितुर्महात्मा प्रतिहारणार्थम् ॥
Summary
AI
Before departing for the forest, the great-souled descendant of Ikṣvāku, Rāma, seeing the distressed Sumantra, stood there for the purpose of being announced to his father.
२.३०.२४
पितुर्निदेशेन तु धर्मवत्सलो
वनप्रवेशे कृतबुद्धिनिश्चयः ।
स राघवः प्रेक्ष्य सुमन्त्रमब्रवी
न्निवेदयस्वागमनं नृपाय मे ॥
वनप्रवेशे कृतबुद्धिनिश्चयः ।
स राघवः प्रेक्ष्य सुमन्त्रमब्रवी
न्निवेदयस्वागमनं नृपाय मे ॥
Summary
AI
Bound by his father's command and devoted to righteousness, the descendant of Raghu, having firmly resolved to enter the forest, looked at Sumantra and said, "Please announce my arrival to the King."
॥ इति अयोध्याकाण्डे त्रिंशः सर्गः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.