२.३१.१
स रामप्रेषितः क्षिप्रं संतापकलुषेन्द्रियः ।
प्रविश्य नृपतिं सूतो निःश्वसन्तं ददर्श ह ॥
प्रविश्य नृपतिं सूतो निःश्वसन्तं ददर्श ह ॥
Summary
AI
Sent by *Rāma*, the charioteer, his senses troubled by distress, entered quickly and saw the king sighing.
२.३१.२
आलोक्य तु महाप्राज्ञः परमाकुल चेतसम् ।
राममेवानुशोचन्तं सूतः प्राञ्जलिरासदत् ॥
राममेवानुशोचन्तं सूतः प्राञ्जलिरासदत् ॥
Summary
AI
Seeing the king deeply agitated and grieving only for *Rāma*, the highly wise charioteer approached with joined palms.
२.३१.३
अयं स पुरुषव्याघ्र द्वारि तिष्ठति ते सुतः ।
ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम् ॥
ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम् ॥
Summary
AI
"O tiger among men, your son stands at the door, having distributed all his wealth to the *Brāhmaṇas* and his dependents."
२.३१.४
स त्वा पश्यतु भद्रं ते रामः सत्यपराक्रमः ।
सर्वान्सुहृद आपृच्छ्य त्वामिदानीं दिदृक्षते ॥
सर्वान्सुहृद आपृच्छ्य त्वामिदानीं दिदृक्षते ॥
Summary
AI
"May the truly courageous *Rāma* see you; welfare to you. Having taken leave of all his friends, he now wishes to see you."
२.३१.५
गमिष्यति महारण्यं तं पश्य जगतीपते ।
वृतं राजगुणैः सर्वैरादित्यमिव रश्मिभिः ॥
वृतं राजगुणैः सर्वैरादित्यमिव रश्मिभिः ॥
Summary
AI
"He is departing for the great forest, O Lord of the earth. Behold him, who is endowed with all royal virtues, like the sun with its rays."
२.३१.६
स सत्यवादी धर्मात्मा गाम्भीर्यात्सागरोपमः ।
आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम् ॥
आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम् ॥
Summary
AI
That king, truthful and righteous, like the ocean in depth and the sky in spotlessness, replied to him.
२.३१.७
सुमन्त्रानय मे दारान्ये केचिदिह मामकाः ।
दारैः परिवृतः सर्वैर्द्रष्टुमिच्छामि राघवम् ॥
दारैः परिवृतः सर्वैर्द्रष्टुमिच्छामि राघवम् ॥
Summary
AI
"*Sumantra*, bring my wives, whoever are here. Surrounded by all my wives, I wish to see *Rāghava*."
२.३१.८
सोऽन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत् ।
आर्यो ह्वयति वो राजा गम्यतां तत्र माचिरम् ॥
आर्यो ह्वयति वो राजा गम्यतां तत्र माचिरम् ॥
Summary
AI
Passing into the inner quarters, he said to the women, "The noble king calls for you; go there without delay."
२.३१.९
एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया ।
प्रचक्रमुस्तद्भवनं भर्तुराज्ञाय शासनम् ॥
प्रचक्रमुस्तद्भवनं भर्तुराज्ञाय शासनम् ॥
Summary
AI
Thus addressed by *Sumantra* by the king's command, all the women, knowing their husband's order, proceeded to his palace.
२.३१.१०
अर्धसप्तशतास्तास्तु प्रमदास्ताम्रलोचनाः ।
कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः ॥
कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः ॥
Summary
AI
Then those three hundred and fifty copper-eyed women, firm in their vows, surrounded *Kausalyā* and slowly went forth.
२.३१.११
आगतेषु च दारेषु समवेक्ष्य महीपतिः ।
उवाच राजा तं सूतं सुमन्त्रानय मे सुतम् ॥
उवाच राजा तं सूतं सुमन्त्रानय मे सुतम् ॥
Summary
AI
When the wives had arrived, the king looked around and said to the charioteer, "*Sumantra*, bring my son to me."
२.३१.१२
स सूतो राममादाय लक्ष्मणं मैथिलीं तदा ।
जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः ॥
जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः ॥
Summary
AI
The charioteer, taking *Rāma*, *Lakṣmaṇa*, and *Maithilī*, then quickly went towards the presence of the Lord of the earth.
२.३१.१३
स राजा पुत्रमायान्तं दृष्ट्वा दूरात्कृताञ्जलिम् ।
उत्पपातासनात्तूर्णमार्तः स्त्रीजनसंवृतः ॥
उत्पपातासनात्तूर्णमार्तः स्त्रीजनसंवृतः ॥
Summary
AI
Seeing his son approaching from afar with joined palms, the king, distressed and surrounded by women, quickly rose from his seat.
२.३१.१४
सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशां पतिः ।
तमसंप्राप्य दुःखार्तः पपात भुवि मूर्छितः ॥
तमसंप्राप्य दुःखार्तः पपात भुवि मूर्छितः ॥
Summary
AI
Seeing *Rāma*, the king rushed forward with speed. Not reaching him, he fell unconscious on the ground, afflicted by grief.
२.३१.१५
तं रामोऽभ्यपातत्क्षिप्रं लक्ष्मणश्च महारथः ।
विसंज्ञमिव दुःखेन सशोकं नृपतिं तदा ॥
विसंज्ञमिव दुःखेन सशोकं नृपतिं तदा ॥
Summary
AI
Then *Rāma* and the great warrior *Lakṣmaṇa* quickly ran towards the king, who was sorrowful and appeared unconscious from grief.
२.३१.१६
स्त्रीसहस्रनिनादश्च संजज्ञे राजवेश्मनि ।
हाहा रामेति सहसा भूषणध्वनिमूर्छितः ॥
हाहा रामेति सहसा भूषणध्वनिमूर्छितः ॥
Summary
AI
In the royal residence, a sudden cry of "Alas, *Rāma*!" arose from thousands of women, mingled with the clinking of their ornaments.
२.३१.१७
तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ ।
पर्यङ्के सीतया सार्धं रुदन्तः समवेशयन् ॥
पर्यङ्के सीतया सार्धं रुदन्तः समवेशयन् ॥
Summary
AI
Weeping, both *Rāma* and *Lakṣmaṇa* embraced him with their arms and, along with *Sītā*, placed him on the couch.
२.३१.१८
अथ रामो मुहूर्तेन लब्धसंज्ञं महीपतिम् ।
उवाच प्राञ्जलिर्भूत्वा शोकार्णवपरिप्लुतम् ॥
उवाच प्राञ्जलिर्भूत्वा शोकार्णवपरिप्लुतम् ॥
Summary
AI
After a moment, *Rāma*, with joined palms, spoke to the king, who had regained consciousness but was overwhelmed by an ocean of grief.
२.३१.१९
आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः ।
प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् ॥
प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् ॥
Summary
AI
"O Great King, I take my leave of you; you are the ruler of us all. Look upon me with favor as I depart for the *Daṇḍaka* forest."
२.३१.२०
लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम् ।
कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ न चेच्छतः ॥
कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ न चेच्छतः ॥
Summary
AI
"Give permission to *Lakṣmaṇa* as well; *Sītā* too follows me to the forest. Though restrained by many valid reasons, they do not wish to stay."
२.३१.२१
अनुजानीहि सर्वान्नः शोकमुत्सृज्य मानद ।
लक्ष्मणं मां च सीतां च प्रजापतिरिव प्रजाः ॥
लक्ष्मणं मां च सीतां च प्रजापतिरिव प्रजाः ॥
Summary
AI
O granter of honor, casting aside your sorrow, grant permission to all of us—Lakṣmaṇa, myself, and Sītā—just as Prajāpati permits his progeny.
२.३१.२२
प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः ।
उवाच रर्जा संप्रेक्ष्य वनवासाय राघवम् ॥
उवाच रर्जा संप्रेक्ष्य वनवासाय राघवम् ॥
Summary
AI
Seeing Rāghava, who was waiting calmly for the king's permission, the king spoke to him regarding his departure for the forest.
२.३१.२३
अहं राघव कैकेय्या वरदानेन मोहितः ।
अयोध्यायास्त्वमेवाद्य भव राजा निगृह्य माम् ॥
अयोध्यायास्त्वमेवाद्य भव राजा निगृह्य माम् ॥
Summary
AI
O Rāghava, I have been deluded by the granting of boons to Kaikeyī. Restrain me today and you yourself become the King of Ayodhyā.
२.३१.२४
एवमुक्तो नृपतिना रामो धर्मभृतां वरः ।
प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः ॥
प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः ॥
Summary
AI
Thus addressed by the king, Rāma, the foremost among those who uphold dharma and an expert in speech, replied to his father with joined palms.
२.३१.२५
भवान्वर्षसहस्राय पृथिव्या नृपते पतिः ।
अहं त्वरण्ये वत्स्यामि न मे कार्यं त्वयानृतम् ॥
अहं त्वरण्ये वत्स्यामि न मे कार्यं त्वयानृतम् ॥
Summary
AI
O King, you are the lord of the earth for a thousand years. I, however, shall live in the forest; I have no desire for you to become untruthful because of me.
२.३१.२६
श्रेयसे वृद्धये तात पुनरागमनाय च ।
गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम् ॥
गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम् ॥
Summary
AI
O dear one, for your well-being, growth, and eventual return, depart calmly on this safe and auspicious path where there is no fear from any side.
२.३१.२७
अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा ।
मातरं मां च संपश्यन्वसेमामद्य शर्वरीम् ।
तर्पितः सर्वकामैस्त्वं श्वःकाले साधयिष्यसि ॥
मातरं मां च संपश्यन्वसेमामद्य शर्वरीम् ।
तर्पितः सर्वकामैस्त्वं श्वःकाले साधयिष्यसि ॥
Summary
AI
O son, do not depart tonight by any means. Staying here tonight, looking at your mother and me, and being satisfied with all comforts, you shall set out tomorrow morning.
२.३१.२८
अथ रामस्तथा श्रुत्वा पितुरार्तस्य भाषितम् ।
लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत् ॥
लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत् ॥
Summary
AI
Then Rāma, having heard the speech of his distressed father, spoke these words dejectedly along with his brother Lakṣmaṇa.
२.३१.२९
प्राप्स्यामि यानद्य गुणान्को मे श्वस्तान्प्रदास्यति ।
अपक्रमणमेवातः सर्वकामैरहं वृणे ॥
अपक्रमणमेवातः सर्वकामैरहं वृणे ॥
Summary
AI
Who will grant me tomorrow those comforts which I might receive today? Therefore, I choose departure over all worldly pleasures.
२.३१.३०
इयं सराष्ट्रा सजना धनधान्यसमाकुला ।
मया विसृष्टा वसुधा भरताय प्रदीयताम् ॥
मया विसृष्टा वसुधा भरताय प्रदीयताम् ॥
Summary
AI
This entire earth, along with its kingdoms, people, and abundance of wealth and grain, has been relinquished by me. Let it be given to Bharata.
२.३१.३१
अपगच्छतु ते दुःखं मा भूर्बाष्पपरिप्लुतः ।
न हि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः ॥
न हि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः ॥
Summary
AI
Let your sorrow vanish; do not be overwhelmed by tears. Even the invincible ocean, the lord of rivers, does not become agitated.
२.३१.३२
नैवाहं राज्यमिच्छामि न सुखं न च मैथिलीम् ।
त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ ॥
त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ ॥
Summary
AI
O bull among men, I desire neither the kingdom, nor happiness, nor even Maithilī. I only wish for you to remain truthful and not be steeped in falsehood.
२.३१.३३
पुरं च राष्ट्रं च मही च केवला
मया निसृष्टा भरताय दीयताम् ।
अहं निदेशं भवतोऽनुपालय
न्वनं गमिष्यामि चिराय सेवितुम् ॥
मया निसृष्टा भरताय दीयताम् ।
अहं निदेशं भवतोऽनुपालय
न्वनं गमिष्यामि चिराय सेवितुम् ॥
Summary
AI
Let the city, the kingdom, and the entire earth relinquished by me be given to Bharata. I, following your command, shall go to the forest to dwell there for a long time.
२.३१.३४
मया निसृष्टां भरतो महीमिमां
सशैलखण्डां सपुरां सकाननाम् ।
शिवां सुसीमामनुशास्तु केवलं
त्वया यदुक्तं नृपते यथास्तु तत् ॥
सशैलखण्डां सपुरां सकाननाम् ।
शिवां सुसीमामनुशास्तु केवलं
त्वया यदुक्तं नृपते यथास्तु तत् ॥
Summary
AI
Let Bharata rule over this entire auspicious and well-bounded earth, including its mountains, cities, and forests, which I have surrendered. O King, let it be exactly as you have spoken.
२.३१.३५
न मे तथा पार्थिव धीयते मनो
महत्सु कामेषु न चात्मनः प्रिये ।
यथा निदेशे तव शिष्टसंमते
व्यपैतु दुःखं तव मत्कृतेऽनघ ॥
महत्सु कामेषु न चात्मनः प्रिये ।
यथा निदेशे तव शिष्टसंमते
व्यपैतु दुःखं तव मत्कृतेऽनघ ॥
Summary
AI
O King, my mind is not fixed on great desires or personal pleasures as much as it is on your command, which is honored by the wise. O sinless one, let your grief on my account disappear.
२.३१.३६
तदद्य नैवानघ राज्यमव्ययं
न सर्वकामान्न सुखं न मैथिलीम् ।
न जीवितं त्वामनृतेन योजय
न्वृणीय सत्यं व्रतमस्तु ते तथा ॥
न सर्वकामान्न सुखं न मैथिलीम् ।
न जीवितं त्वामनृतेन योजय
न्वृणीय सत्यं व्रतमस्तु ते तथा ॥
Summary
AI
O sinless one, today I do not choose the eternal kingdom, nor all desires, nor happiness, nor Maithilī, nor life itself. Not wanting to associate you with a lie, let your vow of truth remain intact.
२.३१.३७
फलानि मूलानि च भक्षयन्वने
गिरींश्च पश्यन्सरितः सरांसि च ।
वनं प्रविश्यैव विचित्रपादपं
सुखी भविष्यामि तवास्तु निर्वृतिः ॥
गिरींश्च पश्यन्सरितः सरांसि च ।
वनं प्रविश्यैव विचित्रपादपं
सुखी भविष्यामि तवास्तु निर्वृतिः ॥
Summary
AI
Eating fruits and roots in the forest, and beholding the mountains, rivers, and lakes, I shall be happy upon entering the woods filled with diverse trees. May you find peace of mind.
॥ इति अयोध्याकाण्डे एकत्रिंशः सर्गः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.