२.९८.१
ततः पुरुषसिंहानां वृतानां तैः सुहृद्गणैः ।
शोचतामेव रजनी दुःखेन व्यत्यवर्तत ॥
शोचतामेव रजनी दुःखेन व्यत्यवर्तत ॥
Summary
AI
Then, for those lion-like men surrounded by their groups of friends, the night passed away in sorrow as they continued to grieve.
२.९८.२
रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृताः ।
मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ॥
मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ॥
Summary
AI
When the night had turned into a beautiful dawn, those brothers, surrounded by their friends, performed their oblations and prayers in the *Mandākinī* river and approached *Rāma*.
२.९८.३
तूष्णीं ते समुपासीना न कश्चित्किंचिदब्रवीत् ।
भरतस्तु सुहृन्मध्ये रामवचनमब्रवीत् ॥
भरतस्तु सुहृन्मध्ये रामवचनमब्रवीत् ॥
Summary
AI
They sat together in silence, and no one said anything. However, *Bharata*, in the midst of his friends, addressed words to *Rāma*.
२.९८.४
सान्त्विता मामिका माता दत्तं राज्यमिदं मम ।
तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् ॥
तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् ॥
Summary
AI
My mother has been consoled, and this kingdom was given to me. I now give it back to you; please enjoy the kingdom free from all obstacles.
२.९८.५
महतेवाम्बुवेगेन भिन्नः सेतुर्जलागमे ।
दुरावारं त्वदन्येन राज्यखण्डमिदं महत् ॥
दुरावारं त्वदन्येन राज्यखण्डमिदं महत् ॥
Summary
AI
Like a dam breached by a great flood during the rains, this vast kingdom is difficult to protect by anyone other than you.
२.९८.६
गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्रिणः ।
अनुगन्तुं न शक्तिर्मे गतिं तव महीपते ॥
अनुगन्तुं न शक्तिर्मे गतिं तव महीपते ॥
Summary
AI
O Lord of the Earth, I do not have the power to follow your pace, just as a donkey cannot match the gait of a horse or an ordinary bird cannot match the flight of *Garuḍa*.
२.९८.७
सुजीवं नित्यशस्तस्य यः परैरुपजीव्यते ।
राम तेन तु दुर्जीवं यः परानुपजीवति ॥
राम तेन तु दुर्जीवं यः परानुपजीवति ॥
Summary
AI
O *Rāma*, his life is truly blessed who is depended upon by others; but he who must depend on others leads a miserable life.
२.९८.८
यथा तु रोपितो वृक्षः पुरुषेण विवर्धितः ।
ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुमः ॥
ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुमः ॥
Summary
AI
Just as a great tree, planted and nurtured by a man until it develops a thick trunk, becomes impossible to climb for a short person.
२.९८.९
स यदा पुष्पितो भूत्वा फलानि न विदर्शयेत् ।
स तां नानुभवेत्प्रीतिं यस्य हेतोः प्रभावितः ॥
स तां नानुभवेत्प्रीतिं यस्य हेतोः प्रभावितः ॥
Summary
AI
When that tree blossoms but fails to yield fruit, the one for whose sake it was nurtured does not experience the joy intended.
२.९८.१०
एषोपमा महाबाहो त्वमर्थं वेत्तुमर्हसि ।
यदि त्वमस्मानृषभो भर्ता भृत्यान्न शाधि हि ॥
यदि त्वमस्मानृषभो भर्ता भृत्यान्न शाधि हि ॥
Summary
AI
O mighty-armed one, this is the analogy; you ought to understand its meaning. If you, our bull-like lord, do not rule over us, your servants, the purpose is lost.
२.९८.११
श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वशः ।
प्रतपन्तमिवादित्यं राज्ये स्थितमरिंदमम् ॥
प्रतपन्तमिवादित्यं राज्ये स्थितमरिंदमम् ॥
Summary
AI
O Great King, let the guilds and the foremost citizens from all sides behold you, the subduer of enemies, established in the kingdom like the blazing sun.
२.९८.१२
तवानुयाने काकुत्ष्ठ मत्ता नर्दन्तु कुञ्जराः ।
अन्तःपुर गता नार्यो नन्दन्तु सुसमाहिताः ॥
अन्तःपुर गता नार्यो नन्दन्तु सुसमाहिताः ॥
Summary
AI
O descendant of *Kākutstha*, let the intoxicated elephants roar in your procession, and let the women in the inner apartments rejoice with great composure.
२.९८.१३
तस्य साध्वित्यमन्यन्त नागरा विविधा जनाः ।
भरतस्य वचः श्रुत्वा रामं प्रत्यनुयाचतः ॥
भरतस्य वचः श्रुत्वा रामं प्रत्यनुयाचतः ॥
Summary
AI
Hearing those words of *Bharata* as he entreated *Rāma*, the citizens and various people exclaimed, "Excellent!"
२.९८.१४
तमेवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम् ।
रामः कृतात्मा भरतं समाश्वासयदात्मवान् ॥
रामः कृतात्मा भरतं समाश्वासयदात्मवान् ॥
Summary
AI
Seeing the illustrious *Bharata* thus grieving and lamenting, the self-possessed and noble-minded *Rāma* consoled him.
२.९८.१५
नात्मनः कामकारोऽस्ति पुरुषोऽयमनीश्वरः ।
इतश्चेतरतश्चैनं कृतान्तः परिकर्षति ॥
इतश्चेतरतश्चैनं कृतान्तः परिकर्षति ॥
Summary
AI
A person has no absolute freedom of action; man is not his own master. Destiny drags him hither and thither.
२.९८.१६
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥
Summary
AI
All accumulations end in depletion; all rises end in falls; all unions end in separation; and life itself ends in death.
२.९८.१७
यथा फलानं पक्वानां नान्यत्र पतनाद्भयम् ।
एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ॥
एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ॥
Summary
AI
Just as ripe fruits have no fear other than falling, so a human being, once born, has no fear other than death.
२.९८.१८
यथागारं दृढस्थूणं जीर्णं भूत्वावसीदति ।
तथावसीदन्ति नरा जरामृत्युवशं गताः ॥
तथावसीदन्ति नरा जरामृत्युवशं गताः ॥
Summary
AI
As a house with strong pillars eventually decays and collapses when it becomes old, so do men perish when they fall under the power of old age and death.
२.९८.१९
अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह ।
आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः ॥
आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः ॥
Summary
AI
Passing days and nights quickly exhaust the lifespans of all living beings here, just as the sun's rays dry up water in the summer heat.
२.९८.२०
आत्मानमनुशोच त्वं किमन्यमनुशोचसि ।
आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ॥
आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ॥
Summary
AI
Grieve for yourself; why do you grieve for another? Your own life-span is diminishing whether you are standing still or moving.
२.९८.२१
सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति ।
गत्वा सुदीर्घमध्वानं सह मृत्युर्निवर्तते ॥
गत्वा सुदीर्घमध्वानं सह मृत्युर्निवर्तते ॥
Summary
AI
Death travels with us, sits beside us, and after accompanying us on a long journey, returns with us.
२.९८.२२
गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहाः ।
जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत् ॥
जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत् ॥
Summary
AI
Wrinkles appear on the body and hair turns white. Once a man is worn out by old age, how can he exert his influence?
२.९८.२३
नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते रवौ ।
आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् ॥
आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् ॥
Summary
AI
Men rejoice at the sun’s rising and setting, yet they fail to perceive the constant waning of their own life span.
२.९८.२४
हृष्यन्त्यृतुमुखं दृष्ट्वा नवं नवमिहागतम् ।
ऋतूनां परिवर्तेन प्राणिनां प्राणसंक्षयः ॥
ऋतूनां परिवर्तेन प्राणिनां प्राणसंक्षयः ॥
Summary
AI
People delight in the arrival of each new season, but with every seasonal cycle, the life of living beings decays further.
२.९८.२५
यथा काष्ठं च काष्ठं च समेयातां महार्णवे ।
समेत्य च व्यपेयातां कालमासाद्य कंचन ॥
समेत्य च व्यपेयातां कालमासाद्य कंचन ॥
Summary
AI
As two logs of wood might meet in the vast ocean and drift apart after a short while upon meeting...
२.९८.२६
एवं भार्याश्च पुत्राश्च ज्ञातयश्च वसूनि च ।
समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः ॥
समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः ॥
Summary
AI
...so do wives, sons, relatives, and wealth come together only to separate. Their parting is inevitable.
२.९८.२७
नात्र कश्चिद्यथा भावं प्राणी समभिवर्तते ।
तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचतः ॥
तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचतः ॥
Summary
AI
No living being can escape its inherent nature of mortality. Therefore, grieving for the departed serves no purpose.
२.९८.२८
यथा हि सार्थं गच्छन्तं ब्रूयात्कश्चित्पथि स्थितः ।
अहमप्यागमिष्यामि पृष्ठतो भवतामिति ॥
अहमप्यागमिष्यामि पृष्ठतो भवतामिति ॥
Summary
AI
As one standing on the path might tell a passing caravan, 'I too shall follow behind you...'
२.९८.२९
एवं पूर्वैर्गतो मार्गः पितृपैतामहो ध्रुवः ।
तमापन्नः कथं शोचेद्यस्य नास्ति व्यतिक्रमः ॥
तमापन्नः कथं शोचेद्यस्य नास्ति व्यतिक्रमः ॥
Summary
AI
...the path taken by ancestors and forefathers is certain and inescapable. Having reached that which allows no deviation, why should one grieve?
२.९८.३०
वयसः पतमानस्य स्रोतसो वानिवर्तिनः ।
आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः ॥
आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः ॥
Summary
AI
As life passes like a non-returning stream, one should engage the self in happiness; for all creatures are said to be seekers of joy.
२.९८.३१
धर्मात्मा स शुभैः कृत्स्नैः क्रतुभिश्चाप्तदक्षिणैः ।
धूतपापो गतः स्वर्गं पिता नः पृथिवीपतिः ॥
धूतपापो गतः स्वर्गं पिता नः पृथिवीपतिः ॥
Summary
AI
Our father, the lord of the earth, having purified his sins through auspicious sacrifices and generous gifts, has ascended to heaven.
२.९८.३२
भृत्यानां भरणात्सम्यक्प्रजानां परिपालनात् ।
अर्थादानाच्च धार्मेण पिता नस्त्रिदिवं गतः ॥
अर्थादानाच्च धार्मेण पिता नस्त्रिदिवं गतः ॥
Summary
AI
By supporting his servants, protecting his subjects, and gathering wealth righteously, our father has reached the celestial realm.
२.९८.३३
इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान् ।
उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः ॥
उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः ॥
Summary
AI
After performing many types of sacrifices, enjoying abundant pleasures, and completing a noble life span, the king has departed for heaven.
२.९८.३४
स जीर्णं मानुषं देहं परित्यज्य पिता हि नः ।
दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् ॥
दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् ॥
Summary
AI
Casting off his worn-out human frame, our father has attained divine prosperity in the realm of *Brahmā*.
२.९८.३५
तं तु नैवं विधः कश्चित्प्राज्ञः शोचितुमर्हति ।
त्वद्विधो यद्विधश्चापि श्रुतवान्बुद्धिमत्तरः ॥
त्वद्विधो यद्विधश्चापि श्रुतवान्बुद्धिमत्तरः ॥
Summary
AI
No wise, learned, or highly intelligent person like you should grieve for him in this manner.
२.९८.३६
एते बहुविधाः शोका विलाप रुदिते तथा ।
वर्जनीया हि धीरेण सर्वावस्थासु धीमता ॥
वर्जनीया हि धीरेण सर्वावस्थासु धीमता ॥
Summary
AI
Various forms of sorrow, wailing, and weeping must be avoided by a steadfast and wise person under all circumstances.
२.९८.३७
स स्वस्थो भव मा शोचो यात्वा चावस तां पुरीम् ।
तथा पित्रा नियुक्तोऽसि वशिना वदताम्व्वर ॥
तथा पित्रा नियुक्तोऽसि वशिना वदताम्व्वर ॥
Summary
AI
O best of speakers, remain composed and do not grieve. Go and dwell in the city as commanded by our self-restrained father.
२.९८.३८
यत्राहमपि तेनैव नियुक्तः पुण्यकर्मणा ।
तत्रैवाहं करिष्यामि पितुरार्यस्य शासनम् ॥
तत्रैवाहं करिष्यामि पितुरार्यस्य शासनम् ॥
Summary
AI
I too shall fulfill the command of our noble father in the place where I was appointed by that performer of meritorious deeds.
२.९८.३९
न मया शासनं तस्य त्यक्तुं न्याय्यमरिंदम ।
तत्त्वयापि सदा मान्यं स वै बन्धुः स नः पिता ॥
तत्त्वयापि सदा मान्यं स वै बन्धुः स नः पिता ॥
Summary
AI
O subduer of enemies, I cannot rightfully discard his command. You must also honor it always, for he was our father and kinsman.
२.९८.४०
एवमुक्त्वा तु विरते रामे वचनमर्थवत् ।
उवाच भरतश्चित्रं धार्मिको धार्मिकं वचः ॥
उवाच भरतश्चित्रं धार्मिको धार्मिकं वचः ॥
Summary
AI
When *Rāma* finished speaking these meaningful words, the righteous *Bharata* offered a wondrous and pious response.
२.९८.४१
को हि स्यादीदृशो लोके यादृशस्त्वमरिंदम ।
न त्वां प्रव्यथयेद्दुःखं प्रीतिर्वा न प्रहर्षयेत् ॥
न त्वां प्रव्यथयेद्दुःखं प्रीतिर्वा न प्रहर्षयेत् ॥
Summary
AI
O subduer of enemies! Who else in this world is like you? Neither sorrow can distress you, nor joy can cause you excessive exultation.
२.९८.४२
संमतश्चासि वृद्धानां तांश्च पृच्छसि संशयान् ।
यथा मृतस्तथा जीवन्यथासति तथा सति ॥
यथा मृतस्तथा जीवन्यथासति तथा सति ॥
Summary
AI
You are esteemed by the elders and consult them on doubts. You remain the same whether in life or death, in non-existence or existence.
२.९८.४३
यस्यैष बुद्धिलाभः स्यात्परितप्येत केन सः ।
स एवं व्यसनं प्राप्य न विषीदितुमर्हति ॥
स एवं व्यसनं प्राप्य न विषीदितुमर्हति ॥
Summary
AI
Why would one who has attained such wisdom grieve? Having encountered such a calamity, such a person should not despair.
२.९८.४४
अमरोपमसत्त्वस्त्वं महात्मा सत्यसंगरः ।
सर्वज्ञः सर्वदर्शी च बुद्धिमांश्चासि राघव ॥
सर्वज्ञः सर्वदर्शी च बुद्धिमांश्चासि राघव ॥
Summary
AI
O *Rāghava*, you possess strength like the gods; you are a great soul, true to your promise, all-knowing, all-seeing, and wise.
२.९८.४५
न त्वामेवं गुणैर्युक्तं प्रभवाभवकोविदम् ।
अविषह्यतमं दुःखमासादयितुमर्हति ॥
अविषह्यतमं दुःखमासादयितुमर्हति ॥
Summary
AI
Most unbearable sorrow should not affect you, who are endowed with such qualities and are knowledgeable about the origin and end of beings.
२.९८.४६
प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम् ।
क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम ॥
क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम ॥
Summary
AI
The sin committed by my lowly mother for my sake while I was away is disagreeable to me. May you be gracious to me.
२.९८.४७
धर्मबन्धेन बद्धोऽस्मि तेनेमां नेह मातरम् ।
हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम् ॥
हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम् ॥
Summary
AI
I am bound by the ties of righteousness; therefore, I do not kill this sinful mother, who deserves punishment, with a severe penalty here.
२.९८.४८
कथं दशरथाज्जातः शुद्धाभिजनकर्मणः ।
जानन्धर्ममधर्मिष्ठं कुर्यां कर्म जुगुप्सितम् ॥
जानन्धर्ममधर्मिष्ठं कुर्यां कर्म जुगुप्सितम् ॥
Summary
AI
Born of *Daśaratha*, whose ancestry and deeds were pure, how could I, knowing righteousness, perform an unrighteous and contemptible act?
२.९८.४९
गुरुः क्रियावान्वृद्धश्च राजा प्रेतः पितेति च ।
तातं न परिगर्हेयं दैवतं चेति संसदि ॥
तातं न परिगर्हेयं दैवतं चेति संसदि ॥
Summary
AI
Because he was my preceptor, performer of rites, elderly, king, deceased father, and a deity, I should not censure my father in an assembly.
२.९८.५०
को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम् ।
स्त्रियाः प्रियचिकीर्षुः सन्कुर्याद्धर्मज्ञ धर्मवित् ॥
स्त्रियाः प्रियचिकीर्षुः सन्कुर्याद्धर्मज्ञ धर्मवित् ॥
Summary
AI
O knower of righteousness! Which person knowing *dharma*, desiring to please a woman, would perform such a sinful deed devoid of virtue and purpose?
॥ इति अयोध्याकाण्डे अष्टनवतितमः सर्गः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.